________________
राजोवाच
-
श्रीमद्भगवद्बादरायणप्रणीतम्
श्रीमद्भागवतम्
अथ दशमस्कन्धः
॥ अथ प्रथमोऽध्यायः ॥
कथितो वंशविस्तारो भवता सोमसूर्ययोः ।
राज्ञां चोभयवंश्यानां चरितं परमाद्भुतम् ॥ १ ॥
॥ अथ श्रीभागवतटिप्पणी सत्यधर्मयतिकृता प्रारभ्यते ॥
दशमे दिश मेऽम्बोधौ धीतर्या तरितुर्यतः ।
पाराशर्य परं पारमसि दाशसुतासुतः ॥ १ ॥
नवमान्ते कथां शुकेन सङ्कुच्य कथितां विस्तरतः श्रोतुमुत्कमनस्कः परीक्षित्किञ्चिदनूद्य श्रोतव्यं त्रयोदशश्लोक्या पृच्छतीति वदति ।। राजेति । हे शुक! भवता सोमसूर्ययोर्वंशविस्तारोऽन्ववायार्थ- प्रपञ्चः । विस्तारो विग्रहो व्यास इत्यमरः । उभयोः सोमसूर्ययोः । हरदत्तेनोभयशब्दस्य द्विवचनमस्तीत्युक्तम् । तथाऽपि शेखरे ननु काकचो : को विशेष इत्यारभ्यैतन्मूलकमेवोभय- शब्दस्यासर्वविभक्तिकत्वं तद्धितश्चेति सूत्रे कैय्यटेनोक्तम् । तदाह कैय्ट इति हरदत्त इति । अत्रारुचिबीजं प्रागुक्तभाष्यविरोधः । भाष्ये तूभयशब्दपाठः प्रत्याख्यात इत्यन्तग्रन्थेन नास्तीति शंसनादस्वरसम् । अत एव सम्प्रदायविदः शय्यां जहत्युभयपक्षविनीतनिद्रा इति पञ्चमसर्गरघुवंशविशदने उभाभ्यां पक्षाभ्यामिति विगृह्य कैय्यटमतमुट्टङ्कितवन्त इति दिक् । वंशे भवा वंश्यास्तेषां चरितम् । कथित इति विपरिणतं सत्कथितमित्यन्वेति । कथननिमित्तं कथयति । परमाद्भुतमिति । अत्याश्चर्यकरम् । परा मा ज्ञानं सम्पद्वा येन तच्च तदद्भुतं तयाऽद्भुतमिति वा अद्भुतं स्कन्धान्तरे गतम् । किञ्चोभयवंश्यानाम् । अभवता न विद्यते भवः संसारो येषां तेषां मुक्तानां भावो
I